|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.99. अध्यायः 099
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रत्यश्विन्यादिनक्षत्रयोगेऽन्नदानफलप्रतिपादकनारददेवकीसंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः।
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे॥ 13-99-1(85433)
भीष्म उवाच। 13-99-2x(7091)
अत्राप्युदाहरन्तीममितिहासं पुरानम्।
देवक्याश्चैव संवादं समर्षेर्नारदस्य च॥ 13-99-2(85434)
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम्।
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शिनी॥ 13-99-3(85435)
तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्ततः।
आचष्ट विधइवत्सर्वं तच्छृणुष्व विशाम्पते॥ 13-99-4(85436)
नारद उवाच। 13-99-5x(7092)
कृत्तिकासु महाभागे पायसेन ससर्पिषा।
सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान्॥ 13-99-5(85437)
रोहिण्यां प्रसृतैर्मार्गैर्मांसैरन्नेन सर्पिषा।
पयोऽन्नपानं दातव्यमनृणार्थं द्विजातये॥ 13-99-6(85438)
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते।
गच्छन्ति मानुपाल्लोकात्स्वर्गलोकमनुत्तमम्॥ 13-99-7(85439)
आर्द्रायां कृसरं दत्त्वा तिलभिश्रमुपोषितः।
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्॥ 13-99-8(85440)
पूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने।
यशस्वी रूपसम्पन्नो बह्वन्नो जायते कुले॥ 13-99-9(85441)
पुण्येण कनकं दत्त्वा कृतं वाऽकृतमेव च।
अनालोकेषु लोकेषु सोमवत्स विराजते॥ 13-99-10(85442)
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति।
स सर्पभयनिर्मुक्तः सम्भवानधितिष्ठति॥ 13-99-11(85443)
मघासु तिलपूर्णानि वर्धमानानि मानवः।
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते॥ 13-99-12(85444)
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः।
भक्ष्यान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति॥ 13-99-13(85445)
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम्।
उत्तराविषये दत्त्वा स्वर्गलोके महीयते॥ 13-99-14(85446)
यद्यत्प्रदीयते दानमुत्तराविषये नरैः।
महाफलमनन्तं तद्भवतीति विनिश्चयः॥ 13-99-15(85447)
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः।
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान्॥ 13-99-16(85448)
चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत।
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा॥ 13-99-17(85449)
स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः।i
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः॥ 13-99-18(85450)
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम्।
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्। 13-99-19(85451)
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते।
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति॥ 13-99-20(85452)
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति।
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः॥ 13-99-21(85453)
अनुराधासु प्रावरं वरान्नं समुपोषितः।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते॥ 13-99-22(85454)
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम्।
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति॥ 13-99-23(85455)
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः।
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति। 13-99-24(85456)
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः।
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे॥ 13-99-25(85457)
प्रदाय जायते प्रेत्य कुले सुबहुगोधने।
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम्॥ 13-99-26(85458)
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात्।
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम्।
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते॥ 13-99-27(85459)
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्॥ 13-99-28(85460)
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः।
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते॥ 13-99-29(85461)
गन्धाञ्शतभिषग्योगे दत्त्वा सागरुचन्दनान्।
प्राप्नोत्यप्सरसां सङ्घान्प्रेत्य गन्धांश्च शाश्वतान् 13-99-30(85462)
पूर्वप्रोष्ठपदायोगे राजमाषान्प्रदाय तु।
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्॥ 13-99-31(85463)
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति।
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते॥ 13-99-32(85464)
कांस्योपदोहनां धेनु रेवत्यां यः प्रयच्छति।
सा प्रेत्य कामानादाय दातारमुपतिष्ठति॥ 13-99-33(85465)
रथमश्वसमायुक्तं दत्त्वाऽश्विन्यां नरोत्तमः।
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले॥ 13-99-34(85466)
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै।
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा॥ 13-99-35(85467)
भीष्म उवाच। 13-99-36x(7093)
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः।
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्॥ ॥ 13-99-36(85468)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनशततमोऽध्यायः॥ 99॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-99-6 मार्गैर्मृगसम्बन्धिभिः॥ 7-99-7 सौम्यनक्षत्रे मृगशिरसि॥ 7-99-9 पूपान् पिष्टमयान् घृतपाचितपिण्डान्॥ 7-99-10 अनालोकेष आलोकान्तरवर्जितेषु स्वयंप्रकाशेष्वित्यर्थः॥ 7-99-13 फाणितं गोरसविकारः॥ 7-99-19 प्रासङ्गो धान्यादिपिधानयोग्यं चतुरश्रम्॥ 7-99-23 उदमन्धं उदकुम्भयुक्तं सक्तुविकारम्॥ 7-99-31 पूर्वप्रोष्टपदायोगे छागमांसमिति थ.पाठः॥ 7-99-32 उरभ्रः पशुविशेष अजो वा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|